|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.124. अध्यायः 124
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरम्प्रति गोमाहात्म्यप्रतिपादकव्यासशुकसंवादानुवादः॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
`युधिष्ठिर उवाच।
पवित्राणां पवित्रं यच्छ्रेष्ठं लोकेषु पूजितम्।
महाव्रतं महाभाग तन्मे ब्रूहि पितामह॥ 13-124-1(86191)
भीष्म उवाच। 13-124-2x(7154)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
पितुः पुत्रस्य संवादं व्यासस्य च शुकस्य च॥ 13-124-2(86192)
ऋषीणामुत्तमं कृष्णं भावितात्मानमच्युतम्।
पारम्पर्यविशेषज्ञं सर्वशास्त्रार्थकोविदम्॥ 13-124-3(86193)
कृतशौचः शुकस्तत्र कृतजप्यः कृताह्निकः।
परं नियममास्थाय परं धर्ममुपाश्रितः॥ 13-124-4(86194)
प्रणम्य शिरसा व्यासं सूक्ष्मतत्वार्थदर्शिनम्।
शुकः पप्रच्छ वै प्रश्नं दानधर्मकुतूहलः॥ 13-124-5(86195)
बहुचित्राणि दानानि बहुशः शंससे मुने।
महार्थं पावनं पुण्यं किंस्विद्दानं महाफलम्॥ 13-124-6(86196)
केन दुर्गाणि तरति केन लोकानवाप्नुते।
केन वा महदाप्नोति इह लोके परत्र च॥ 13-124-7(86197)
के वा यज्ञस्य वोढारः केषु यज्ञः प्रतिष्ठितः।
किञ्च यज्ञस्य यज्ञत्वं किञ्च यज्ञस्य भेषजम्।
यज्ञानामुत्तमं किञ्च तद्भवान्प्रब्रवीतु मे॥ 13-124-8(86198)
स तस्मै भजमानाय जातकौतूहलाय च।
व्यासो व्रतनिधिः प्राह गवामिदमनुत्तमम्॥ 13-124-9(86199)
धन्यं यशस्यमायुष्यं लोके श्रुतिसुखावहम्।
यत्पवित्रं पवित्राणां मङ्गलानां च मङ्गलम्॥ 13-124-10(86200)
सर्वपापप्रशमनं तत्समासेन मे शृणु।
यदिदं तिष्ठते लोके जगत्स्थावरजङ्गमम्।
गावस्तत्प्राप्य तिष्ठन्ति गोलोके पुण्यदर्शनाः॥ 13-124-11(86201)
मातरः सर्वभूतानां विश्वस्य जगतश्च ह।
रुद्राणामिह साध्यानां गाव एव तु मातरः॥ 13-124-12(86202)
रुद्राणां मातरो ह्येता ह्यादित्यानां स्वसा स्मृताः।
वसूनां च दुहित्रस्ता ब्रह्मसन्तानमूलजाः॥ 13-124-13(86203)
यासामधिपतिः पूषा मरुतो वालबन्धनाः।
ऐश्वर्यं वरुणो राजा विश्वेदेवाः समाश्रिताः॥ 13-124-14(86204)
य एवं वेद ता गावो मातरो देवपूजिताः।
स विप्रो ब्रह्मलोकाय गवां लोकाय वा ध्रुवः॥ 13-124-15(86205)
गावस्तु नावमन्येत कर्मणा मनसा गिरा।
गवां स्थानं परं लोके प्रार्थयेद्यः परां गतिम्॥ 13-124-16(86206)
न पद्भ्यां ताडयेद्गा वै न दण्डेन न मुष्टिना।
इमां विद्यामुपाश्रित्य पावनीं ब्रह्मनिर्मिताम्॥ 13-124-17(86207)
मातॄणामन्ववाये च न गोमध्ये न गोव्रजे।
नरो मूत्रपुरीषस्य दृष्ट्वा कुर्याद्विसर्जनम्॥ 13-124-18(86208)
शुद्धाश्चन्दनशीताङ्ग्यश्चन्द्ररश्मिसमप्रभाः।
सौम्याः सुरभ्यः सुभगा गावो गुग्गुलुगन्धयः॥ 13-124-19(86209)
सर्वे देवाऽविशन्गा वै समुद्रमिव सिन्धवः।
दिवं चैवान्तरिक्षं च गवां व्युष्टिं समश्नुते॥ 13-124-20(86210)
दधिना जुहुयादग्निं दधिना स्वस्ति वाचयेत्।
दधि दद्याच्च प्राशेत गवां व्युष्टिं समश्नुते॥ 13-124-21(86211)
घृतेन जुहुयादग्निं घृतेन स्वस्ति वाचयेत्।
घृतमालभ्य प्राश्नीयाद्गवां व्युष्टिं समश्नुते॥ 13-124-22(86212)
गावः संजीवना यास्तु गावो दानमनुत्तमम्।
ताः पुण्यगोपाः सुफला भजमानं भजन्तु माम्॥ 13-124-23(86213)
येन देवाः पवित्रेण स्वर्गलोकमितो गताः।
तत्पवित्रं पवित्राणां मम मूर्ध्नि प्रतिष्ठितम्॥ 13-124-24(86214)
वीणामृदङ्गपणवा गवां गात्रं प्रतिष्ठिताः।
क्रीडारतिविहारार्थे त्रिषु लोकेषु वर्तते॥ 13-124-25(86215)
न तत्र देवा वर्तन्ते नाग्निहोत्राणि जुह्वति।
न यज्ञैरिज्यते चात्र यत्र गौर्वै न दृश्यते॥ 13-124-26(86216)
क्षीरं दधि घृथं यासां रसानामुत्तमो रसः।
अमृतप्रभवा गावस्त्रैलोक्यं येन जीवति॥ 13-124-27(86217)
इमामाहूय धेनुं च सवत्सां यज्ञमातरम्।
उपाह्वयन्ति यां विप्रा गावो यज्ञहविष्कृतम्॥ 13-124-28(86218)
या मेध्या प्रथमं कर्म इयं धेनुः सरस्वती।
पौर्णमासेन वत्सेन कामं कामगुणान्विता॥ 13-124-29(86219)
यत्र सर्वमिदं प्रोतं यत्किंचिज्जङ्गमं जगत्।
स गौर्वै प्रथमा पुण्या सर्वभूतहिते रता॥ 13-124-30(86220)
धारणाः पावनाः पुण्या भावना भूतभावनाः।
गावो मामभिरक्षन्तु इह लोके परत्र च॥ 13-124-31(86221)
एष यज्ञः सहोपाङ्ग एष यज्ञः सनातनः।
वेदाः सहोपनिषदो गवां रूपाः प्रतिष्ठिताः॥ 13-124-32(86222)
एतत्तात मया प्रोक्तं गवामिह परं मतम्।
सर्वतः श्रावयेन्नित्यं प्रयतो ब्रह्मसंसदि॥ 13-124-33(86223)
श्रुत्वा लभेत ताँल्लोकान्ये मया परिकीर्तिताः।
श्रावयित्वापि प्रीतात्मा लोकांस्तान्प्रतिपद्यते 13-124-34(86224)
धेनुमेकां समादद्यादहन्यहनि पावनीम्।
तत्तथा प्राप्नुयाद्विप्रः पठन्वै गोमतीं सदा॥ 13-124-35(86225)
अथ धेनुर्न विद्यते तिलधेनुमनुत्तमाम्।
दद्याद्गोमतिकल्पेन तां धेनुं सर्वपावनीम्॥ 13-124-36(86226)
आह्निकं गोमतीं नित्यं यः पठेत सदा नरः।
सर्वपापात्प्रमुच्येत प्रयतात्मा य आचरेत्॥ 13-124-37(86227)
घृतं वा नित्यमालभ्य प्राश्य वा गोमतीं जपेत्।
स्नात्वा वा गोकरीषेण पठन्पापात्प्रमुच्यते॥ 13-124-38(86228)
मनसा गोमतीं जप्येद्गोमत्या नित्यमाह्निकम्।
न त्वेन दिवसं कुर्याद्व्यर्थं गोमत्यपाठकः॥ 13-124-39(86229)
गोमतीं जपमाना हि देवा देवत्वमाप्नुवन्।
ऋषित्वमृषयश्चापि गोमत्या सर्वमाप्नुवन्॥ 13-124-40(86230)
बद्धो बन्धात्प्रमुच्येत कृच्छ्रान्मुच्येत सङ्कटात्।
गोमतीं सेवते यस्तु लभते प्रियसङ्गमम्॥ 13-124-41(86231)
एतत्पवित्रं कार्त्स्न्येन एतद्व्रतमनुत्तमम्।
एतत्तु पृथिवीपाल पावनं शृण्वतां सदा॥ 13-124-42(86232)
पुत्रकामाश्च ये केचिद्धनकामाश्च मानवाः।
अद्धाने चोरवैरिभ्यो मुच्यते गोमतीं पठन्॥ 13-124-43(86233)
पूर्ववैरानुबन्धेषु रणए चाप्याततायिनः।
लभेत जयमेवाशु सदा गोमतिपाठकः॥'॥ ॥ 13-124-44(86234)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुर्विंशत्यधिकशततमोऽध्यायः॥ 124 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-124-1 देवव्रत महाभागेति क.पाठः॥ 7-124-18 मातॄणामनुपाते चेति थ.पाठ.॥ 7-124-26 यत्र गौर्वै न दुह्यते इति थ.पाठ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|